गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं
प्रार्थन
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशांतये ॥
अयं मुहूर्तस्सुमुहूर्तोऽस्तु ।
तदेव लग्नं सुदिनं तदेव, ताराबलं चंद्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंघ्रियुगं स्मरामि, सुमुहूर्तोऽस्तु ।
यश्शिवो नामरूपाभ्यां या देवी सर्वमंगला ।
तयोस्संस्मरणात् पुंसां सर्वतो जयमंगलम् ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिंदीवरश्यामो हृदयस्थोजनार्थनः ॥
आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
(श्री विघ्नेश्वर षोडशनाम स्तोत्रं)
सुमुखश्चैकदंतश्च कपिलो गजकर्णिकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥
धूमकेतु-र्गणाध्यक्षो फालचंद्रो गजाननः ।
वक्रतुंड-श्शूर्पकर्णो हेरंब-स्स्कंदपूर्वजः ॥ 2 ॥
षोडशैतानि नामानि यः पठे-च्छृणु-यादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥
अभीप्सितार्थ सिद्ध्यर्थं पूजितो यस्सुरैरपि ।
सर्वविघ्नच्चिदेतस्मै श्री महागणाधिपतये नमः ॥
ॐ श्रीलक्ष्मी नारायणाभ्यां नमः ।
ॐ उमा महेश्वराभ्यां नमः ।
ॐ वाणी हिरण्यगर्भाभ्यां नमः ।
ॐ शची पुरंदराभ्यां नमः ।
ॐ अरुंधती वशिष्ठाभ्यां नमः ।
ॐ श्री सितारामाभ्यां नमः ।
नमस्सर्वेभ्यो महाजनेभ्यो नमः ॥
अयं मुहूर्त-स्सुमुहूर्तोऽस्तु ॥
शरीर शुद्धि
अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतर श्शुचिः ॥
पुंडरीकाक्ष ! पुंडरीकाक्ष ! पुंडरीकाक्षाय नमः ।
आचमनः
ॐ आचम्य
ॐ केशवाय स्वाहा
ॐ नारायणाय स्वाहा
ॐ माधवाय स्वाहा (इति त्रिराचम्य)
ॐ गोविंदाय नमः (पाणी मार्जयित्वा)
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य)
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः (वामहस्तॆ जलं प्रोक्ष्य)
ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)
ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)
ॐ संकर्षणाय नमः (अंगुलिभिश्चिबुकं जलं प्रोक्ष्य)
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)
ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)
ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)
ॐ उपेंद्राय नमः (हस्तं शिरसि निक्षिप्य)
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)
ॐ श्रीकृष्ण परब्रह्मणे नमो नमः
भूतोच्चाटन
उत्तिष्ठंतु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।
दैवी गायत्री चंदः प्राणायामे विनियोगः
प्राणायामः
ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।
ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥
संकल्पः
ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर-मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वंतरे, कलियुगे, प्रथम पादे, (भारत देशः – जंबू द्वीपे, भरत वर्षे, भरत खंडे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका – क्रौंच द्वीपे, रमणक वर्षे, ऐंद्रिक खंडे, सप्त समुद्रांतरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चांद्रमान, … संवत्सरे, … अयने, … ऋते, … मासे, … पक्षे, … तिथौ, … वासरे, … शुभ नक्षत्र, शुभ योग, शुभ करण, एवंगुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, … गोत्रः, … नामधेयः, … गोत्रस्य, … नामधेयोहं … मम धर्मपत्नी समेतस्य, अस्माकं सहकुटुंबानां, क्षेमस्थैर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृध्ह्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्द्यर्थं, इष्टकाम्यार्थ सिद्ध्यर्थं, मनोवांछाफल सिद्धर्थं, समस्त दुरितोप शांत्यर्थं, समस्त मंगलावाप्यर्थं, पुत्रपौत्राभिवृद्ध्यर्थं, सकलकार्येषु सर्वदा दिग्विजयसिद्ध्यर्थं, वर्षे वर्षे प्रयुक्त श्री वरसिद्धि विनायक देवता-मुद्धिस्य, श्री वरसिद्धि विनायक देवता प्रीत्यर्थं, कल्पोक्त प्रकारेण यावच्छक्ति ध्यानावाहनादि षोडशोपचारपूजां करिष्ये ।
तदंग कलशपूजां करिष्ये ॥
कलशं गंधपुष्पाक्षतैरभ्यर्च्य ।
तस्योपरि हस्तं निधाय –
कलश पूज
कलशस्य मुखे विष्णुः कंठे रुद्र-स्समाहितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्मृताः ॥
कुक्षौतु सागराः सर्वे सप्तद्व्वीपा वसुंधरा ।
ऋग्वेदोध यजुर्वेद-स्सामवेदो-ह्यधर्वणः ॥
अंगैश्च सहितास्सर्वे कलशांबु समाश्रिताः ।
आ कलशेषु धावति पवित्रे परिषिच्यते ।
उक्थैर्यज्ञेषु वर्धते ॥
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो -ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडापः॒ छंदा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् ॥ 29.1 (तै. अर. 6.29.1)
गंगे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
आयांतु देवपूजार्थं दुरितक्षयकारकाः ।
(कलशोदकेन पूजाद्रव्याणि, आत्मानं, देवं च संप्रोक्ष्य)
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
श्री वरसिद्धि विनायक देवताये नमः ।
अथ प्राणप्रतिष्ठापनं करिष्ये ।
श्री वरसिद्धि विनायक प्राण प्रतिष्ठा
ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. – 10.59.6
अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।
इत्याद्येन प्राणप्रतिष्ठापनं कृत्वा, नमस्कृत्वा ॥
ॐ श्री वरसिद्धि विनायकाय नमः ।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्वं प्रीतिभावेन बिंबेऽस्मिन् सन्निधिं कुरु ॥
आवाहितो भव, स्थापितो भव, सुमुखो भव, सुप्रसन्नो भव, वरदो भव, प्रसीद, प्रसीद, प्रसीद ।
षोडशोपचार पूजा
प्रार्थन
भवसंचितपापौघ विध्वंसनविचक्षणम् ।
विघ्नांधकारभास्वंतं विघ्नराजमहं भजे ॥
एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥
उत्तमं गणनाथस्य व्रतं संपत्करं शुभम् ।
भक्ताभीष्टप्रदं तस्माद्ध्यायेत्तं विघ्ननायकम् ॥
ध्यानं
ध्यायेद्गजाननं देवं तप्तकांचनसन्निभम् ।
चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः ध्यायामि ।
आवाहनं
(सहस्रशीर्षा … दशांगुलम्)
अत्रागच्छ जगद्वंद्य सुरराजार्चितेश्वर ।
अनाथनाथ सर्वज्ञ गौरीगर्भसमुद्भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आवाहयामि ।
आसनं
(पुरुष एवेदगं … अतिरोहति)
मौक्तिकैः पुष्परागैश्च नानारत्नैर्विराजितम् ।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आसनं समर्पयामि ।
अर्घ्यं
(एतावानस्य … दिवि)
गौरीपुत्र नमस्तेऽस्तु शंकरप्रियनंदन ।
गृहाणार्घ्यं मया दत्तं गंधपुष्पाक्षतैर्युतम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः अर्घ्यं समर्पयामि ।
पाद्यं
(त्रिपादूर्ध्वः … अभि)
गजवक्त्र नमस्तेऽस्तु सर्वाभीष्टप्रदायक ।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पाद्यं समर्पयामि ।
मधुपर्कः
दधिक्षीरसमायुक्तं मध्वाज्येन समन्वितम् ।
मधुपर्कं गृहाणेदं गजवक्त्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः मधुपर्कं समर्पयामि ।
आचमनीयं
(तस्माद्विराडजायत … पुरः)
अनाथनाथ सर्वज्ञ गीर्वाणवरपूजित ।
गृहाणाचमनं देव तुभ्यं दत्तं मया प्रभो ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आचमनीयं समर्पयामि ।
पंचामृत स्नानं
पयो दधि घृतं चैव शर्करा मधु संयुतम् ।
पंचामृतं गृहाणेदं स्नानाय गणनायक ॥
स्नानं पंचामृतैर्देव गृहाण गणनायक ।
अनाथनाथ सर्वज्ञ गीर्वाणगणपूजित ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पंचामृत स्नानं समर्पयामि ।
शुद्धोदक स्नानं
(यत्पुरुषेण … हविः)
गंगादिसर्वतीर्थेभ्य आहृतैरमलैर्जलैः ।
स्नानं कुरुष्य भगवन्नुमापुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानंतरं आचमनीयं समर्पयामि ।
वस्त्रं
(सप्तास्यासन् … पशुम्)
रक्तवस्त्रद्वयं चारु देवयोग्यं च मंगलम् ।
शुभप्रद गृहाण त्वं लंबोदर हरात्मज ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतं
राजतं ब्रह्मसूत्रं च कांचनं चोत्तरीयकम् ।
गृहाण देव सर्वज्ञ भक्तानामिष्टदायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः यज्ञोपवीतं समर्पयामि ।
गंधं
चंदनागरु कर्पूर कस्तूरी कुंकुमान्वितम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः श्रीगंधान् धारयामि ।
अक्षतान्
अक्षतान् धवलान् दिव्यान् शालीयांस्तंडुलान् शुभान् ।
गृहाण परमानंद शंभुपुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः अलंकरणार्थं अक्षतान् समर्पयामि ।
पुष्पाणि
सुगंधानि च पुष्पाणि जातीकुंदमुखानि च ।
एकविंशतिपत्राणि संगृहाण नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पुष्पैः पूजयामि ।
अथांगपूजा
ॐ गणेशाय नमः – पादौ पूजयामि ।
ॐ एकदंताय नमः – गुल्फौ पूजयामि ।
ॐ शूर्पकर्णाय नमः – जानुनी पूजयामि ।
ॐ विघ्नराजाय नमः – जंघे पूजयामि ।
ॐ आखुवाहनाय नमः – ऊरूं पूजयामि ।
ॐ हेरंबाय नमः – कटिं पूजयामि ।
ॐ लंबोदराय नमः – उदरं पूजयामि ।
ॐ गणनाथाय नमः – नाभिं पूजयामि ।
ॐ गणेशाय नमः – हृदयं पूजयामि ।
ॐ स्थूलकंठाय नमः – कंठं पूजयामि ।
ॐ स्कंदाग्रजाय णमह श्कंधौ पूजयामि ।
ॐ पाशहस्ताय णमह हस्थौ पूजयामि ।
ॐ गजवक्त्राय नमः – वक्त्रं पूजयामि ।
ॐ विघ्नहंत्रे नमः – नेत्रं पूजयामि ।
ॐ शूर्पकर्णाय नमः – कर्णौ पूजयामि ।
ॐ फालचंद्राय नमः – ललाटं पूजयामि ।
ॐ सर्वेश्वराय नमः – शिरः पूजयामि ।
ॐ विघ्नराजाय नमः – सर्वाण्यंगाणि पूजयामि ।
अथैकविंशति पत्रपूज
सुमुखायनमः – माचीपत्रं पूजयामि (दर्भ) ।
गणाधिपाय नमः – बृहतीपत्रं पूजयामि ।
उमापुत्राय नमः – बिल्वपत्रं पूजयामि (मारेडु) ।
गजाननाय नमः – दुर्वायुग्मं पूजयामि(गरिक) ।
हरसूनवेनमः – दत्तूरपत्रं पूजयामि (उम्मॆत्त) ।
लंबोदरायनमः – बदरीपत्रं पूजयामि (रेगु) ।
गुहाग्रजायनमः – अपामार्गपत्रं पूजयामि (उत्तरेणि) ।
गजकर्णायनमः – तुलसीपत्रं पूजयामि ।
एकदंताय नमः – चूतपत्रं पूजयामि (आम्र) ।
विकटाय नमः – करवीरपत्रं पूजयामि (गन्नेरु)।
भिन्नदंताय नमः – विष्णुक्रांतपत्रं पूजयामि ।
वटवेनमः – दाडिमीपत्रं पूजयामि (दानिम्म) ।
सर्वेश्वरायनमः – देवदारुपत्रं पूजयामि ।
फालचंद्राय नमः – मरुवकपत्रं पूजयामि ।
हेरंबायनमः – सिंधुवारपत्रं पूजयामि ।
शूर्पकर्णायनमः – जाजीपत्रं पूजयामि ।
सुराग्रजायनमः – गंडकीपत्रं पूजयामि ।
इभवक्त्रायनमः – शमीपत्रं पूजयामि (जम्मि) ।
विनायकाय नमः – अश्वत्थपत्रं पूजयामि (रावि) ।
सुरसेविताय नमः – अर्जुनपत्रं पूजयामि (मद्दि) ।
कपिलाय नमः – अर्कपत्रं पूजयामि (जिल्लेडु) ।
श्री गणेश्वराय नमः – एकविंशति पत्राणि पूजयामि ।
एकविंशति पुष्प पूजा
ॐ पंचास्य गणपतये नमः – पुन्नाग पुष्पं समर्पयामि ।
ॐ महा गणपतये नमः – मंदार पुष्पं समर्पयामि ।
ॐ धीर गणपतये नमः – दाडिमी पुष्पं समर्पयामि ।
ॐ विष्वक्सेन गणपतये नमः – वकुल पुष्पं समर्पयामि ।
ॐ आमोद गणपतये नमः – अमृणाल(तामर) पुष्पं समर्पयामि ।
ॐ प्रमथ गणपतये नमः – पाटली पुष्पं समर्पयामि ।
ॐ रुद्र गणपतये नमः – द्रोण पुष्पं समर्पयामि ।
ॐ विद्या गणपतये नमः – धत्तूर पुष्पं समर्पयामि ।
ॐ विघ्न गणपतये नमः – चंपक पुष्पं समर्पयामि ।
ॐ दुरित गणपतये नमः – रसाल पुष्पं समर्पयामि ।
ॐ कामितार्थप्रद गणपतये नमः – केतकी पुष्पं समर्पयामि ।
ॐ सम्मोह गणपतये नमः – माधवी पुष्पं समर्पयामि ।
ॐ विष्णु गणपतये नमः – शम्याक पुष्पं समर्पयामि ।
ॐ ईश गणपतये नमः – अर्क पुष्पं समर्पयामि ।
ॐ गजास्य गणपतये नमः – कल्हार पुष्पं समर्पयामि ।
ॐ सर्वसिद्धि गणपतये नमः – सेवंतिका पुष्पं समर्पयामि ।
ॐ वीर गणपतये नमः – बिल्व पुष्पं समर्पयामि ।
ॐ कंदर्प गणपतये नमः – करवीर पुष्पं समर्पयामि ।
ॐ उच्छिष्ठ गणपतये नमः – कुंद पुष्पं समर्पयामि ।
ॐ ब्रह्म गणपतये नमः – पारिजात पुष्पं समर्पयामि ।
ॐ ज्ञान गणपतये नमः – जाती पुष्पं समर्पयामि ।
एकविंशति दूर्वायुग्म पूजा
ॐ गणाधिपाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ पाशांकुशधराय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ आखुवाहनाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ विनायकाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ ईशपुत्राय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ सर्वसिद्धिप्रदाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ एकदंताय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ इभवक्त्राय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ मूषकवाहनाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ कुमारगुरवे नमः – दूर्वायुग्मं समर्पयामि ।
ॐ कपिलवर्णाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ ब्रह्मचारिणे नमः – दूर्वायुग्मं समर्पयामि ।
ॐ मोदकहस्ताय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ सुरश्रेष्ठाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ गजनासिकाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ कपित्थफलप्रियाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ गजमुखाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ सुप्रसन्नाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ सुराग्रजाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ उमापुत्राय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ स्कंदप्रियाय नमः – दूर्वायुग्मं समर्पयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नानाविध पत्र पुष्पाणि समर्पयामि ।
श्री विनायक अष्टोत्तरशत नाम पूजा
ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नराजाय नमः
ॐ विनायकाय नमः
ॐ द्वैमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिने नमः
ॐ सुप्रदीप्ताय नमः (10)
ॐ सुखनिधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिघ्नाय नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महाकालाय नमः
ॐ महाबलाय नमः
ॐ हेरंबाय नमः
ॐ लंबजठराय नमः
ॐ ह्रस्वग्रीवाय नमः (20)
ॐ प्रथमाय नमः
ॐ प्राज्ञाय नमः
ॐ प्रमोदाय नमः
ॐ मोदकप्रियाय नमः
ॐ विघ्नकर्त्रे नमः
ॐ विघ्नहंत्रे नमः
ॐ विश्वनेत्रे नमः
ॐ विराट्पतये नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः (30)
ॐ शृंगारिणे नमः
ॐ आश्रितवत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ बल्वान्विताय नमः
ॐ बलोद्दताय नमः
ॐ भक्तनिधये नमः
ॐ भावगम्याय नमः
ॐ भावात्मजाय नमः (40)
ॐ अग्रगामिने नमः
ॐ मंत्रकृते नमः
ॐ चामीकर प्रभाय नमः
ॐ सर्वाय नमः
ॐ सर्वोपास्याय नमः
ॐ सर्वकर्त्रे नमः
ॐ सर्वनेत्रे नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ सर्वसिद्धाय नमः
ॐ सर्ववंद्याय नमः (50)
ॐ नर्वसिद्दि-प्रदाय नमः
ॐ पंचहस्ताय नमः
ॐ पार्वतीनंदनाय नमः
ॐ प्रभवे नमः
ॐ कुमार गुरवे नमः
ॐ कुंजरासुर-भंजनाय नमः
ॐ कांतिमते नमः
ॐ धृतिमते नमः
ॐ कामिने नमः
ॐ कपित्थफलप्रियाय नमः (60)
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः
ॐ महोदराय नमः
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मंत्रिणे नमः
ॐ मंगलसुस्वराय नमः
ॐ प्रमदाय नमः
ॐ ज्यायसे नमः
ॐ यक्षिकिन्नरसेविताय नमः (70)
ॐ गंगासुताय नमः
ॐ गणाधीशाय नमः
ॐ गंभीरनिनदाय नमः
ॐ वटवे नमः
ॐ ज्योतिषे नमः
ॐ अक्रांत-पदचित्प्रभवे नमः
ॐ अभीष्टवरदाय नमः
ॐ मंगलप्रदाय नमः
ॐ अव्यक्त रूपाय नमः
ॐ पुराणपुरुषाय नमः (80)
ॐ पूष्णे नमः
ॐ पुष्करोत्क्षिप्त-वारणाय नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अपाकृतपराक्रमाय नमः
ॐ सत्यधर्मिणे नमः
ॐ सख्यै नमः
ॐ साराय नमः
ॐ सरसांबुनिधये नमः
ॐ महेशाय नमः (90)
ॐ विशदांगाय नमः
ॐ मणिकिंकिणी मेखलाय नमः
ॐ समस्तदेवतामूर्तये नमः
ॐ सहिष्णवे नमः
ॐ ब्रह्मविद्यादि दानभुवे नमः
ॐ विष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्तजीविताय नमः
ॐ ऐश्वर्यकारणाय नमः
ॐ सततोत्थिताय नमः (100)
ॐ विष्वग्दृशेनमः
ॐ विश्वरक्षा-विधानकृते नमः
ॐ कल्याणगुरवे नमः
ॐ उन्मत्तवेषाय नमः
ॐ परजयिने नमः
ॐ समस्त जगदाधाराय नमः
ॐ सर्वैश्वर्यप्रदाय नमः
ॐ श्री विघ्नेश्वराय नमः (108)
श्री महागणाधिपतये नमः ।
नानाविध परिमल पत्रपुष्प पूजां समर्पयामि ।
धूपं
दशांगं गुग्गुलोपेतं सुगंधि सुमनोहरम् ।
उमासुत नमस्तुभ्यं गृहाण वरदो भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः धूपमाघ्रापयामि ।
दीपं
साज्यं त्रिवर्तिसंयुक्तं वह्निना द्योतितं मया ।
गृहाण मंगलं दीपं ईशपुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः दीपं दर्शयामि ।
नैवेद्यं
सुगंधान् सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मया दत्तं विनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नैवेद्यं समर्पयामि ।
तांबूलं
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं तांबूलं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः तांबूलं समर्पयामि ।
तांबूल चर्वणानंतरं आचमनीयं समर्पयामि ।
नीराजनं
घृतवर्ति सहस्रैश्च कर्पूरशकलैस्तथा ।
नीराजनं मया दत्तं गृहाण वरदो भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नीराजनं समर्पयामि ।
नीराजनानंतरं आचमनीयं समर्पयामि ।
मंत्रपुष्पं
गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ।
विनायकेशतनय सर्वसिद्धिप्रदायक ॥
एकदंतैकवदन तथा मूषकवाहन ।
कुमारगुरवे तुभ्यमर्पयामि सुमांजलिम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः मंत्रपुष्पं समर्पयामि ।
प्रदक्षिणं
प्रदक्षिणं करिष्यामि सततं मोदकप्रिय ।
मद्विघ्नं हरये शीघ्रं भक्तानामिष्टदायक ॥
आखुवाहन देवेश विश्वव्यापिन् विनायक ।
प्रदक्षिणं करोमि त्वां प्रसीद वरदो भव ॥
यानि कानि च पापानि जन्मांतरकृतानि च ।
तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टांग नमस्कारं
नमो नमो गणेशाय नमस्ते विश्वरूपिणे ।
निर्विघ्नं कुरु मे कामं नमामि त्वां गजानना ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं तं भक्तानां एकदंतमुपास्महे ॥
नमस्ते भिन्नदंताय नमस्ते हरसूनवे ।
ममाभीष्टप्रदो भूयो विनायक नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः साष्टांग नमस्कारं समर्पयामि ।
प्रार्थन
प्रसीद देवदेवेश प्रसीद गणनायक ।
ईप्सितं मे वरं देहि परत्र च परांगतिम् ॥
विनायक वरं देहि महात्मन् मोदकप्रिय ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः प्रार्थन नमस्कारान् समर्पयामि ।
राजोपचार पूजा
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । छत्रमाच्छादयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । चामरैर्वीजयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । गीतं श्रावयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । नृत्यं दर्शयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । वाद्यं घोषयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । आंदोलिकान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । अश्वान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । गजान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
पुनरर्घ्यं
अर्घ्यं गृहाण हेरंब वरप्रद विनायक ।
गंधपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक ।
पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
नमस्ते भिन्नदंताय नमस्ते हरसूनवे ।
यिदमर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
गौर्यंगमलसंभूत स्वामि ज्येष्ठ विनायक ।
गणेश्वर गृहाणार्घ्यं गजानन नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
समर्पणं
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वंदे गजाननम् ॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं विनायक ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री सिद्धि विनायकः स्वामि सुप्रीतो सुप्रसन्नो वरदो भवंतु ।
विघ्न कथाश्वर
बहुत समय पहले, जिन ऋषियों ने कठोर तप किया था, तथा अन्य प्रतिष्ठित ब्राह्मण नैमिष वन में एकत्रित हुए थे। उन्होंने सिद्ध ऋषि सूत से पूछा कि क्या कोई ऐसा पवित्र व्रत है जिसे करने से व्यक्ति अपने कार्य या पहल को बिना किसी बाधा के पूरा कर सकता है तथा अपनी इच्छानुसार फल प्राप्त कर सकता है। उन्होंने सूत से अनुरोध किया कि यदि कोई व्रत हो तो कृपया उस पर प्रकाश डालें।
इस तरह से मौखिक शिष्टाचार के साथ स्वागत किए जाने पर, ऋषि सूत, जो एक विद्वान पौराणिक विद्वान और सभी शास्त्रों के विशेषज्ञ थे, कहते हैं, “अतीत में, चचेरे भाइयों – पांडवों और कौरवों के बीच हस्तिनापुर के राज्य के लिए खूनी युद्ध के दौरान, पांडवों में सबसे बड़े, धर्म राजा (युधिष्ठिर) ने कृष्ण से अनुरोध किया कि वे उन्हें उस भगवान के बारे में बताएं, जिनकी युद्ध में जीत के लिए प्रार्थना की जानी चाहिए और एक पवित्र व्रत के बारे में बताएं, जिसे पूरा करने पर खोया हुआ राज्य वापस जीतने में मदद मिलेगी।
इस पर, भगवान कृष्ण उत्तर देते हैं कि हर साल भाद्रपद माह के शुक्ल पक्ष की चतुर्थी तिथि को श्री वरसिद्धि विनायक व्रत करना चाहिए। वह आगे कहते हैं कि व्रत करने वाले को तिल के तेल से स्नान करना चाहिए, स्वच्छ और नए कपड़े पहनने चाहिए, उस दिन स्वच्छ मन रखना चाहिए और अपनी पूरी शक्ति और क्षमता के अनुसार, सोने, चांदी, तांबे या मिट्टी का उपयोग करके भगवान की मूर्ति बनानी चाहिए और इस मूर्ति की पूजा करनी चाहिए। वह आगे कहते हैं कि गणेश की यह मूर्ति एकदंत – एक-दंत वाली होनी चाहिए; शूर्प-कर्ण – जिसमें पंखे की तरह कान हों; चतुर-भुजा – चार हाथों वाला, और उसके प्रत्येक हाथ में एक फंदा, हाथी का अंकुश, कडुबू – एक पारंपरिक भरवां मिठाई और अभय मुद्रा – निडरता का भाव हो। व्रती को गणधिप (सभी गणों या कुलों के प्रमुख) के नाम पर चंदन, विनायक (बिना शासक वाले) के नाम पर पुष्प, उमासुत (देवी उमा के पुत्र) के नाम पर धूपबत्ती, रुद्रप्रिया (भगवान रुद्र की प्रिय) के नाम पर घी में भीगी हुई रूई की बत्ती से प्रज्वलित दीपक, विघ्ननाशक (बाधाओं का नाश करने वाले) के नाम पर इक्कीस मोदक (तले हुए या उबले हुए भरवां पकौड़े), इक्कीस गणधिप नामों का जाप करते हुए इक्कीस ताज़ा बरमूडा घास की पट्टियाँ, और कपूर से आरती (एक धार्मिक अनुष्ठान जिसमें देवता को ज्योति/ज्योति अर्पित की जाती है) अर्पित करनी चाहिए। इक्कीस मोदकों में से दस मोदक जरूरतमंद लोगों को दक्षिणा (धन या भौतिक उपहार के रूप में भेंट का एक प्रतीक) के साथ दान कर देने चाहिए और उनका आशीर्वाद स्वीकार करना चाहिए।
यदि ऐसा किया जाए, तो सभी शुभ-उद्देश्य और आकांक्षाएँ फलित होंगी। इससे पहले, भगवान शिव ने त्रिपुर दहन के समय; राजा राम ने अपनी पत्नी सीता की खोज के समय; भगीरथ ने गंगा नदी को पृथ्वी पर लाया; देवताओं और दानवों ने अमृत (जीवन का अमृत) के लिए समुद्र मंथन के समय और कुष्ठ रोग से पीड़ित साम्ब ने वरसिद्धि विनायक व्रत करके आशीर्वाद प्राप्त किया था। और इस प्रकार, कृष्ण ने युधिष्ठिर को अपना राज्य वापस पाने के लिए यह पवित्र व्रत करने के लिए प्रेरित किया।
“इस व्रत को करने से दरिद्रों को धन की प्राप्ति होती है, निःसंतान को संतान की प्राप्ति होती है, विवाहित स्त्री को दीर्घायु का साथ मिलता है, विद्यार्थियों को उपयोगी ज्ञान प्राप्त होता है, और कन्या को उत्तम पति की प्राप्ति होती है।” इस प्रकार, सूत ऋषि अन्य ऋषियों को वरसिद्धि विनायक व्रत का उपदेश देते हैं और संक्षेप में बताते हैं कि यदि कोई भाद्रपद मास के शुक्ल पक्ष की चतुर्थी को चंद्रमा के दर्शन करता है, तो उस पर झूठे आरोप लगते हैं। उपाय के रूप में, स्यमंतकोपाख्यान (स्यमंतक नामक रत्न के बारे में एक स्तुति) सुनना चाहिए। यह सुनकर, अन्य विद्वान ऋषि सूत से स्यमंतक मणि के पीछे की कथा के बारे में विस्तार से बताने का अनुरोध करते हैं।
श्यामंतकोपाख्यान (श्यामंतक रत्न की कथा)
बहुत समय पहले, भगवान शिव ने गणेश को सभी गणों (भगवान शिव के सेवकों का कुल) के प्रमुख के रूप में अभिषेक किया, सभी देवताओं की उपस्थिति में उन्हें आठ शास्त्रीय सिद्धियों (सिद्धियों) और बुद्धि (ज्ञान) के साथ अपनी दो पत्नियों के रूप में आशीर्वाद दिया। भगवान ब्रह्मा ने आगे आशीर्वाद दिया कि जो कोई भी भगवान गणेश को इक्कीस मोदक अर्पित करता है, भगवान गणेश के आशीर्वाद से उनकी कड़ी मेहनत सफल होगी। ऐसा कहकर, भगवान ब्रह्मा ने भगवान गणेश को इक्कीस मोदक अर्पित किए और बिना किसी बाधा के अपने सृजन के कार्य को जारी रखने का आशीर्वाद मांगा। आनंदित गणेश तब अपने वाहन – चूहे, अपनी दोनों पत्नियों, सिद्धि और बुद्धि के साथ एक आरामदायक छुट्टी पर निकल पड़ते हैं।
जब वे चन्द्रलोक में अपने सौन्दर्य पर गर्व करने वाले अभिमानी चन्द्रमा (साक्षात् चन्द्रमा) के पास से गुजरे, तो चन्द्रमा ने उनका अपमान किया। क्रोधित गणेश ने श्राप दिया कि उनकी सुन्दरता क्षीण हो जाएगी। चन्द्रमा श्राप से भयभीत हो गए और कमल के नीचे छिप गए। अन्य देवताओं को दया आ गई और उन्होंने चन्द्रमा को भगवान से सम्मानपूर्वक क्षमा याचना करने के लिए राजी किया। ऐसा करने पर, गणेश ने श्राप की गंभीरता को कम करने का प्रस्ताव रखा और घोषणा की कि जो कोई भी भाद्रपद माह के शुक्ल पक्ष की चतुर्थी के दिन चन्द्रमा को देखेगा, उस पर गलत आरोप लगेंगे और इस भयावह अभिशाप से मुक्ति पाने के लिए स्यमंतक मणि की कथा पढ़नी या सुननी होगी। चन्द्रमा विनम्रता और भक्ति से भर गए
द्वापर युग में, भगवान नारायण ने वसुदेव और देवकी के पुत्र के रूप में अवतार लिया, जिसका नाम कृष्ण था, जिसका एकमात्र उद्देश्य पृथ्वी को सभी बुराइयों से मुक्त करना था (और इस प्रकार इसका भार कम करना था)। उग्रसेन के पुत्र सत्राजित, एक यादव कुलीन ने सूर्य भगवान से प्रार्थना की। उसकी भक्ति से प्रसन्न होकर, सूर्य भगवान ने एक तेजस्वी अग्नि के रूप में उसके सामने दर्शन दिए। सत्राजित ने भगवान से कम चमकदार रूप में प्रकट होने का अनुरोध किया। सूर्य भगवान ने अपने गले से स्यमंतक मणि उतार दी ताकि वे चमकते हुए तांबे के समान शरीर और हल्की लाल आँखों वाले अपने वास्तविक स्वरूप को प्रकट कर सकें। सत्राजित प्रसन्न हुआ और उसने अभिवादन और आराधना की, जिसके बदले उसे स्यमंतक मणि का वरदान मिला। उसे यह भी बताया गया कि यदि इसे अत्यधिक तपस्या और पवित्रता (तन और मन दोनों के सम्मान के साथ) के साथ पहना जाए, जब सत्राजित गले में स्यमंतक मणि पहनकर द्वारका लौटे, तो लोगों ने उन्हें सूर्य देवता समझ लिया। बाद में उन्होंने इसे अपने भाई प्रसेन को भेंट कर दिया, जो यादव प्रांत के शासक भी थे।
ऐसे ही एक दिन, प्रसेन ने स्यमंतक मणि धारण की और कृष्ण और बलराम के साथ शिकार पर निकल पड़े। जंगल में, दुर्भाग्यवश एक सिंह ने प्रसेन को मार डाला और वह मणि अपने साथ ले गया। हालाँकि, बाद में, रीछों के राजा जाम्बवंत ने उस सिंह को मार डाला और अपनी गुफा में अपनी पुत्री जाम्बवती को यह मणि पहना दी।
उसी समय, जब कृष्ण द्वारका लौटे, एक झूठी अफवाह पूरे शहर में जंगल की आग की तरह फैल गई कि कृष्ण ने स्यमंतक मणि के लिए जंगल में प्रसेन की हत्या कर दी। कृष्ण इस दोष से दुखी हुए, उन्होंने नारद मुनि से सीखा कि भाद्रपद माह के शुक्ल पक्ष की चतुर्थी के दिन वरसिद्धि विनायक व्रत करने से उन्हें सभी दोषों से मुक्ति मिल जाएगी। उनके निर्देशों का पालन करने के बाद, कृष्ण प्रसेन का पता लगाने के लिए जंगल में चले गए। रास्ता उन्हें प्रसेन और शेर के निशान तक ले गया, जो तब तक दोनों मर चुके थे, और फिर जाम्बवंत की गुफा तक। कृष्ण ने जाम्बवती के पास स्यमंतक मणि की खोज की। अति प्रसन्न कृष्ण ने अपना शंख बजाया और जाम्बवंत का ध्यान आकर्षित किया गुफा के बाहर के लोगों ने लगभग यह आशा छोड़ दी थी कि कृष्ण जीवित बच निकलेंगे, जबकि गुफा के अंदर कृष्ण को जामवंत को धीरे-धीरे थका देने के लिए बहुत लंबे समय तक युद्ध करना पड़ा। अंततः, कृष्ण ने अपना रामावतार (भगवान राम के रूप में अवतार) प्रस्तुत किया और इस प्रकार प्रकट किया कि वे वास्तव में त्रेता युग से जामवंत के सम्मानित मित्र हैं। तब जामवंत ने विनम्रतापूर्वक हार स्वीकार कर ली और अपनी पुत्री जामवंती का विवाह कृष्ण से करने का प्रस्ताव रखा। और फिर, उसके साथ ही स्यमंतक मणि भी द्वारका चली गई। कृष्ण ने मणि सत्राजित को लौटा दी, जिसने सच्चाई जानने के बाद अपनी पुत्री सत्यभामा का विवाह कृष्ण से करने का प्रस्ताव रखा और स्यमंतक मणि उन्हें रखने दी। इस प्रकार, उस विशेष दिन चंद्र के दर्शन और तत्संबंधी वरसिद्धि विनायक व्रत के पालन ने कृष्ण को झूठे आरोप से मुक्त कर दिया।
इसी प्रकार, जो कोई भी भाद्रपद माह के शुक्ल पक्ष के चतुर्थी के दिन चंद्रमा की झलक देख लेता है, वह इसके परिणामों से मुक्त होने के लिए निम्नलिखित श्लोक का जाप कर सकता है:
सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः।
सुकुमारक मा रोदिः तव-ह्येष-श्यामन्तकः ॥
इति धात्रयुक्त सुश्लोकं यश्च स्मृति जलं पिबेत्।
दैवदृष्ट नष्ट चन्द्र दोषादेव प्रमुच्यते।
प्रसेन को सिंह ने मारा था; उस सिंह का वध जाम्बवान ने किया था।
हे प्रिय बालक, रो मत! यह स्यमन्तक मणि तुम्हारी है।
जो इस श्लोक का पाठ करके जल पीता है, उसे इस दिन चन्द्रमा के दर्शन करने पर भी कोई पाप नहीं लगता।
इसके अलावा, स्यमंतक मणि की इस कथा को पढ़ने या सुनने से न केवल ऐसी परिस्थितियों के कारण उत्पन्न होने वाले पाप से मुक्ति मिलती है, बल्कि गणेशजी द्वारा सभी प्रकार के सुख-सुविधाओं का आशीर्वाद भी प्राप्त होता है। इस प्रकार, सूत मुनि अपने आश्रम में बैठे सभी विद्वानों और मुनियों को वरसिद्धि विनायक की कथा समझाते हैं।
इस प्रकार, स्यामन्तक मणि की कथा के बारे में स्कन्द पुराण का यह अंश समाप्त होता है।
उद्वासन
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचंते । यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥
अस्मिन् बिंबे प्रतिष्ठितं वरसिद्धि विनायकं यथास्थानमुद्वासयमि ॥
संकट नाशन गणेश स्तोत्रं
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1 ॥
प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ 2 ॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ 3 ॥
नवमं भालचंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ 4 ॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ 5 ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ 6 ॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ 7 ॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ 8 ॥
इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेश स्तोत्रम् ।
विनायक मंगलाचरणं (तॆलुगु)
उ ॥ तॊंडमुनेकदंतमु तोरपु बॊज्जयु वाम हस्तमुन्
मॆंडुग म्रोयु गज्जॆलु मॆल्लनि चूपुलु मंदहासमुन्
कॊंडॊक गुज्जु रूपमुन कोरिन विद्यलकॆल्ल नॊज्जवै
युंडॆडु पार्वती तनय ओयि गणाधिपा! नीकु म्रॊक्कॆदन्
तॊलुत नविघ्नमस्तनुचु धूर्जटी नंदन नीकु म्रॊक्कॆदन्
फलितमु सेयवय्य निनु प्रार्धन जेसॆद नेकदंत ना
वलपटि चेति घंटमुन वाक्कुन नॆपुडु बायकुंडुमी
तलपुन निन्नु वेडॆदनु दैवगणाधिप लोक नायका!
क ॥ तलचितिने गणनाथुनि
तलचितिने विघ्नपतिनि दलचिन पनिगा
दलचितिने हेरंबुनि
दलचिन ना विघ्नमुलनु तॊलगुट कॊरकुन्
अटुकुलु कॊब्बरि पलुकुलु
चिटि बॆल्लमु नानुब्रालु चॆरकु रसंबुन्
निटलाक्षुनग्र सुतुनकु
पटुकरमुग विंदु चेतु प्रार्थिंतु मदिन्
ओ बॊज्जगणपय्य नी बंटु नेनय्य – उंड्राल्ल मीदिकि दंडु पंपु ।
कम्मनि नॆय्यियु कडुमुद्दपप्पुनु – बॊज्जविरुगग दिनुचु पॊरलुकॊनुचु
। जय मंगलं नित्य शुभ मंगलम् ।
वॆंडिपल्लॆरमुलो वॆयिवेल मुत्यालु – कॊंडलुग नीलमुलु कलियबोसि ।
मॆंडुगनु हारमुलु मॆडनिंड वेसिकॊनि – दंडिगा नीकित्तु धवलारति ॥ जय ॥
श्रीमूर्तिवंद्युनकु चिन्मयानंदुनकु – भासुरस्तोत्रुनकु शाश्वतुनकु ।
सोमार्कनेत्रुनकु सुंदराकारुनकु – कामरूपुनकु श्री गणनाधुनकुनु ॥ जय ॥
एकदंतंबुनु ऎल्लगजवदनंबु – बागयिन तॊंडंबु वलपु कडुपु ।
जोकयुन मूषिकमु सॊरिदिनॆक्काडुचुनु – भव्युडगु देवगणपतिकि निपुडु ॥ जय ॥
चॆंगल्व चेमंति चॆलरेगि गन्नेरु तामरलु तंगेडु तरचुगानु ।
पुष्पजातुलु तॆच्चि पूजिंतु नेनॆपुडु बहुबुद्धि गणपतिकि बागुगानु ॥जय ॥