अध्याय 1
वल्ली 1
ॐ उशन् ह वै वाजश्रवस-स्सर्ववेदस-न्ददौ।
तस्य ह नचिकेता नाम पुत्र आस ॥ ॥1॥
तं ह कुमारं सन्त-न्दक्षिणासु नीयमानासु श्रद्धा-ऽऽविवेश। सो-ऽमन्यत ॥ ॥2॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ॥3॥
स होवाच पितर-न्तत कस्मै मा-न्दास्यसीति।
द्वितीय-न्तृतीय-न्तं होवाच मृत्यवे त्वा ददामीति ॥ ॥4॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किं स्विद्यमस्य कर्तव्यं-यँन्मयाद्य करिष्यति ॥ ॥5॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथा-ऽपरे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ॥6॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्।
तस्यैतां शान्ति-ङ्कुर्वन्ति हर वैवस्वतोदकम् ॥ ॥7॥
आशाप्रतीक्षे सङ्गतं सूनृता-ञ्चेष्टापूर्वे पुत्रपशूंश्च सर्वान्।
एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ॥8॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्ते-ऽस्तु ब्रह्मन्स्वस्ति मे-ऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ॥9॥
शान्तसङ्कल्प-स्सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो।
त्वत्प्रसृष्ट-म्माभिवदेत्प्रतीत एतत्त्रयाणा-म्प्रथमं-वँरं-वृँणे ॥ ॥10॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखं रात्री-श्शयिता वीतमन्युस्त्वा-न्ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥ ॥11॥
स्वर्गे लोके न भय-ङ्किञ्चनास्ति न तत्र त्व-न्न जरया बिभेति।
उभे तीर्त्वा-ऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ॥12॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्व-म्भजन्त एतद् द्वितीयेन वृणे वरेण ॥ ॥13॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्नि-न्नचिकेतः प्रजानन्।
अनन्तलोकाप्तिमथो प्रतिष्ठां-विँद्धि त्वमेत-न्निहित-ङ्गुहायाम् ॥ ॥14॥
लोकादिमग्नि-न्तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ ॥15॥
तमब्रवीत्प्रीयमाणो महात्मा वर-न्तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविता-ऽयमग्नि-स्सृङ्का-ञ्चेमामनेकरूपा-ङ्गृहाण ॥ ॥16॥
त्रिणाचिकेतस्त्रिभिरेत्य सन्धि-न्त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञ-न्देवमीड्यं-विँदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ ॥17॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं-विँद्वांश्चिनुते नाचिकेतम्।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ ॥18॥
एष ते-ऽग्निर्नचिकेत-स्स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्नि-न्तवैव प्रवक्श्यन्ति जनासस्तृतीयं-वँर-न्नचिकेतो वृणीष्व ॥ ॥19॥
येय-म्प्रेते विचिकित्सा मनुष्ये-ऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वया-ऽहं-वँराणामेष वरस्तृतीयः ॥ ॥20॥
देवैरत्रापि विचिकित्सित-म्पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं-वँर-न्नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ ॥21॥
देवैरत्रापि विचिकित्सित-ङ्किल त्व-ञ्च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ ॥22॥
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्।
भूमेर्महदायतनं-वृँणीष्व स्वय-ञ्च जीव शरदो यावदिच्छसि ॥ ॥23॥
एतत्तुल्यं-यँदि मन्यसे वरं-वृँणीष्व वित्त-ञ्चिरजीविका-ञ्च।
महाभूमौ नचिकेतस्त्वमेधि कामाना-न्त्वा-ङ्कामभाज-ङ्करोमि ॥ ॥24॥
ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामा-स्सरथा-स्सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरण-म्मा-ऽनुप्राक्शीः ॥ ॥25॥
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणा-ञ्जरयन्ति तेजः।
अपि सर्व-ञ्जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ ॥26॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं-वँरस्तु मे वरणीय-स्स एव ॥ ॥27॥
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधस्स्थः प्रजानन्।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ ॥28॥
यस्मिन्निदं-विँचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।
यो-ऽयं-वँरो गूढमनुप्रविष्टो नान्य-न्तस्मान्नचिकेता वृणीते ॥ ॥29॥
