नमोऽस्तु कोणसंस्थाय पिंगलाय नमोऽस्तु ते । [क्रोध]
नमस्ते बभ्रुरूपाय कृष्णाय च नमोऽस्तु ते ॥ 1 ॥
नमस्ते रौद्रदेहाय नमस्ते चांतकाय च ।
नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥ 2 ॥
नमस्ते मंदसंज्ञाय शनैश्चर नमोऽस्तु ते ।
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥ 3 ॥
इति पिप्पलाद कृत श्री शनि स्तोत्रम् ।