16

श्री सिद्धलक्ष्मी स्तोत्रम् - देवी स्तोत्र

अस्य श्रीसिद्धलक्ष्मीस्तोत्रमंत्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छंदः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिद्ध्यर्थं श्रीसिद्धिलक्ष्मीस्तोत्र पाठे विनियोगः ॥

ऋष्यादिन्यासः
ॐ हिरण्यगर्भ ऋषये नमः शिरसि ।
अनुष्टुप्छंदसे नमो मुखे ।
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः ।
श्रीं बीजाय नमो गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वांगेषु ॥

करन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानंदायै मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ।
ॐ ह्रीं तेजः प्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतल करपृष्ठाभ्यां नमः ॥

अंगन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानंदायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्बंधः ॥

अथ ध्यानम्
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ 1 ॥

पीतांबरधरां देवीं नानालंकारभूषिताम् ।
तेजःपुंजधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ 2 ॥

अथ स्तोत्रम्
ॐकारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् ।
विष्णुमानंदमव्यक्तं ह्रींकारं बीजरूपिणीम् ॥ 3 ॥

क्लीं अमृतानंदिनीं भद्रां सत्यानंददायिनीम् ।
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ॥ 4 ॥

तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ॥ 5 ॥

अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम् ।
मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते ॥ 6 ॥

सूर्यकोटिप्रतीकाशं चंद्रकोटिसमप्रभम् ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम् ॥ 7 ॥

ॐकारं परमानंदं सदैव सुरसुंदरीम् ।
सिद्धलक्ष्मी मोक्षलक्ष्मी आद्यलक्ष्मी नमोऽस्तु ते ॥ 8 ॥

श्रींकारं परमं सिद्धं सर्वबुद्धिप्रदायकम् ।
सौभाग्याऽमृता कमला सत्यलक्ष्मी नमोऽस्तु ते ॥ 9 ॥

ह्रींकारं परमं शुद्धं परमैश्वर्यदायकम् ।
कमला धनदा लक्ष्मी भोगलक्ष्मी नमोऽस्तु ते ॥ 10 ॥

क्लींकारं कामरूपिण्यं कामनापरिपूर्तिदम् ।
चपला चंचला लक्ष्मी कात्यायनी नमोऽस्तु ते ॥ 11 ॥

श्रींकारं सिद्धिरूपिण्यं सर्वसिद्धिप्रदायकम् ।
पद्माननां जगन्मात्रे अष्टलक्ष्मीं नमोऽस्तु ते ॥ 12 ॥

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणी नमोऽस्तु ते ॥ 13 ॥

प्रथमं त्र्यंबका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुंदरी तथा ॥ 14 ॥

पंचमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ॥ 15 ॥

नवमं खड्गिनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ॥ 16 ॥

उत्तरन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानंदायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्विमोकः ॥

अथ फलशृतिः
एतत् स्तोत्रवरं देव्या ये पठंति सदा नराः ।
सर्वापद्भ्यो विमुच्यंते नात्र कार्या विचारणा ॥ 17 ॥

एकमासं द्विमासं च त्रिमासं च चतुस्थथा ।
पंचमासं च षण्मासं त्रिकालं यः सदा पठेत् ॥ 18 ॥

ब्राह्मणः क्लेशितो दुःखी दारिद्र्यभयपीडितः ।
जन्मांतर सहस्रोत्थैर्मुच्यते सर्वकिल्बषैः ॥ 19 ॥

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान् भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च ॥ 20 ॥

शाकिनी भूत वेताल सर्प व्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृहनिबंधने ॥ 21 ॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकम् ।
स्तुवंतु ब्राह्मणाः नित्यं दारिद्र्यं न च बाधते ॥ 22 ॥

सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनीम् ।
साधकाः लभते सर्वं पठेत् स्तोत्रं निरंतरम् ॥ 23 ॥

प्रार्थना
या श्रीः पद्मवने कदंबशिखरे राजगृहे कुंजरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शंखे दैवकुले नरेंद्रभवने गंगातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गंभीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेंद्रैर्मणिगणखचितैः स्नापिता हेमकुंभैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥

इति श्रीब्रह्मपुराणे ईश्वरविष्णुसंवादे श्री सिद्धलक्ष्मी स्तोत्रम् ॥

Aaj ki Tithi