16

माया पंचकं - आदि शंकराचार्य स्तोत्र

निरुपमनित्यनिरंशकेऽप्यखंडे –
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं –
त्वघटितघटनापटीयसी माया ॥ 1 ॥

श्रुतिशतनिगमांतशोधकान-
प्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ 2 ॥

सुखचिदखंडविबोधमद्वितीयं –
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितांतं –
त्वघटितघटनापटीयसी माया ॥ 3 ॥

अपगतगुणवर्णजातिभेदे –
सुखचिति विप्रविडाद्यहंकृतिं च ।
स्फुटयति सुतदारगेहमोहं –
त्वघटितघटनापटीयसी माया ॥ 4 ॥

विधिहरिहरविभेदमप्यखंडे –
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया ॥ 5 ॥

More: प्रातःस्मरण स्तोत्रं

प्रातःस्मरण स्तोत्रं निर्वाण दशकं
Aaj ki Tithi